|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.103. अध्यायः 103
Mahabharata - Sabha Parva - Chapter Topics
धृतराष्ट्रसञ्जययोः संवादः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे।
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्॥ 2-103-1(15585)
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्।
निः श्वसन्तमनेकाग्रमिति होवाच सञ्जयः॥ 2-103-2(15586)
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप।
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि॥ 2-103-3(15587)
धृतराष्ट्र उवाच॥ 2-103-4x(1745)
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति।
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः॥ 2-103-4(15588)
सञ्जय उवाच॥ 2-103-5x(1746)
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम्।
विनाशो येन लोकस्य सानुबन्धो भविष्यति॥ 2-103-5(15589)
वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च।
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्। 2-103-6(15590)
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव।
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्॥ 2-103-7(15591)
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्।
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति॥ 2-103-8(15592)
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति॥ 2-103-9(15593)
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः।
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते॥ 2-103-10(15594)
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्।
कालस्य बलमेतार्वाद्वपरीतार्थदर्शनम्॥ 2-103-11(15595)
आसादितमिदं घोरं तुमुलं रोमहर्षणम्।
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम्॥ 2-103-12(15596)
अयोनिजां रूपवतीं कुले जातां विभावसोः।
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्॥ 2-103-13(15597)
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम्।
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता॥ 2-103-14(15598)
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत।
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः॥ 2-103-15(15599)
विहीनान्सर्वकामेभ्यो दासभावमुपागतान्।
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे॥ 2-103-16(15600)
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि।
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्॥ 2-103-17(15601)
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे। 2-103-18(15602)
धृतराष्ट्र उवाच॥
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी॥ 2-103-18x(1747)
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय।
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः॥ 2-103-19(15603)
प्राकोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्।
धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम्॥ 2-103-20(15604)
प्रजाभिःसह सङ्गम्य ह्यनुशोचन्ति नित्यशः।
अग्निहोत्राणि सायाह्ने च चाहूयन्त सर्वशः॥ 2-103-21(15605)
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे।
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्॥ 2-103-22(15606)
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्।
अपर्वणि महाघोरं प्रजानां जयन्भयम्॥ 2-103-23(15607)
तथैव रथशालासु प्रादुरासीद्धुताशनः।
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये॥ 2-103-24(15608)
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः।
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः॥ 2-103-25(15609)
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय।
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः॥ 2-103-26(15610)
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः।
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति॥ 2-103-27(15611)
अवृणोत्तत्र पाञ्चाली पाण्डवाना --सताम्।
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्॥ 2-103-28(15612)
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित्।
एतदन्तास्तु भरता यद्व-कृष्णा सभां गता॥ 2-103-29(15613)
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा।
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति॥ 2-103-30(15614)
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः।
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः॥ 2-103-31(15615)
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः।
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः॥ 2-103-32(15616)
तेषां मध्ये महेष्वासो भीमसेनो महाबलः।
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः॥ 2-103-33(15617)
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः।
गदावेगं च भीमस्य नालं सोढुं नराधिपाः॥ 2-103-34(15618)
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः।
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान्॥ 2-103-35(15619)
तथा हि बलवान्राजा जरासन्धो महाद्युतिः।
बाहुप्रहरणेनैव भीमेन निहतो युधि। 2-103-36(15620)
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया॥ 2-103-37(15621)
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि।
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः॥ 2-103-38(15622)
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा॥ ॥ 2-103-39(15623)
इति श्रीमन्महाभारते शतसाहस्रयां संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि व्यधिकशततमोऽध्यायः॥ 103॥ ॥ समाप्तमनुद्यूतपर्व सभापर्व च॥ इतः परं वनपर्व भविष्यति तस्यायमाद्यः श्लोकः। जनमेजय उवाच॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः। धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 1॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-103-22 निष्ठानकः चण्डवात इत्यर्थः। निर्घातो वज्रशब्दः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|